हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Jwalamukhi Stotram 1 – श्री ज्वालामुखी स्तोत्रम्
श्रीभैरव उवाच ।
तारं यो भजते मातर्बीजं तव सुधाकरम् ।
पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १ ॥
शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितं
सेन्दुं बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः ।
मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती
गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २ ॥
शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदं
सबिन्द्वीन्दुं मन्दो यदि जपति बीजं तव प्रियम् ।
तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः
सुखमिन्द्रोद्याने स्वपिति स भवत्पूजनरतः ॥ ३ ॥
ज्वालामुखीति जपते तव नामवर्णान्
यः साधको गिरिशपत्नि सुभक्तिपूर्वम् ।
तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः
सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४ ॥
पाशाम्बुजाभयधरे मम सर्वशत्रून्
शब्दं त्विति स्मरति यस्तव मन्त्रमध्ये ।
तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ
प्रक्षालयन्त्यरिवधूनयनाश्रुपाताः ॥ ५ ॥
भक्षयद्वयमिदं यदि भक्त्या
साधको जपति चेतसि मातः ।
स स्मरारिरिव त्वत्प्रसादत-
-स्त्वत्पदं च लभते दिवानिशम् ॥ ६ ॥
कूर्चबीजमनघं यदि ध्यायेत्
साधकस्तव महेश्वरि योऽन्तः ।
अष्टहस्तकमलेषु सुवश्या-
-स्तस्य त्र्यम्बकसमस्तसिद्धयः ॥ ७ ॥
ठद्वयं तव मनूत्तरस्थितं
यो जपेत्तु परमप्रभावदम् ।
तस्य देवि हरिशङ्करादयः
पूजयन्ति चरणौ दिवौकसः ॥ ८ ॥
ओं ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिषूदिनि ।
त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥ ९ ॥
उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते ।
वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥ १० ॥
सर्वसारमयि शर्वे सर्वामरनमस्कृते ।
सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥ ११ ॥
यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः
पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः ।
गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले सन्ततं
देवीं कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥ १२ ॥
निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजे-
-द्विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् ।
दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा
देवः कुङ्कुमपीतगण्डयुगलः सङ्क्रन्दनः क्रन्दति ॥ १३ ॥
यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू-
-रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् ।
दारिद्र्योरगदष्टलोकत्रितयीसञ्जिवनीं मातरं
देवीं तां हृदये शशाङ्कशकलाचूडावतंसां भजे ॥ १४ ॥
आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां
लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः ।
वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः
पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥ १५ ॥
हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे
शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः ।
कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति
तन्मातर्भुवने विचित्रमखिलं जाने भवत्याः शिवे ॥ १६ ॥
गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा
श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा ।
शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं
त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥ १७ ॥
ज्वालामुखीस्तवमिमं पठते यदन्तः
श्रीमन्त्रराजसहितं विभवैकहेतुम् ।
इष्टप्रदानसमये भुवि कल्पवृक्षं
स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥ १८ ॥
इति देवीरहस्ये श्री ज्वालामुखि स्तवम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.